कमलमित्यादि । अनम्भसि जलशून्ये देशे कमलमस्ति । कमले पुनः कुवलये नीलनलिनद्वयम्, तानि च कमलकुवलयानि कनकलतिकायां सुवर्णलतायाम्, सा च कनकलतिका सुकुमारा कोमला सती सुभगा रम्येत्यनेन प्रकारेण केयमुत्पातपरम्परारिष्टपङ्क्तिः । ‘उत्पातोऽरिष्टमित्यपि’ इत्यमरः । पूर्ववदिति । कस्याश्चिन्मुखादौ कमलाद्यारोपः, विचित्रता च कमलादौ कुवलयाद्यभिधानेनैवोक्ता तस्या एवाभिधानादनन्यतयोक्तिः ॥