अत्र संक्षेपतः सीताशब्दवाच्यस्य मुखादेरवयवसमूहस्याश्रयत इन्दुरञ्जनेनैव लिप्तः, जडितेव मृगीणां दृष्टिः, प्रम्लानमिवारुण्यं विद्रुमस्य, श्यामेव हेमकान्तिः, परुषा इव कोकिलालापाः, सगर्हा इव शिखिनां बर्हा इत्युत्प्रेक्षोक्तेरनुक्तान्यपि तदुपमेयानि मुखादीनि प्रतीयन्ते, सेयमपि संक्षेपोक्तिः समासोक्तिरेव भवति । कः पुनः समासोक्तेः समाध्युक्तेर्वा विशेषः । उच्यते । यत्र प्राकरणिकेऽप्राकरणिको धर्मोऽध्यास्यते सा समाध्युक्तिः यथा—'असहन्तिब्ब किलिम्मइ पिअअमपच्छक्खदूसणं दिणलच्छी ।’ इति । यत्र पुनरप्राकरणिके प्राकरणिकधर्मः सा समासोक्तिः । यथा—'पिबन्मधु यथाकामं भ्रमरः फुल्लपङ्कजे ।’ इति । ननु धर्मिणोऽध्यासे समानमिति चेत् । न । ‘स त्वं तत्त्वं कथय भवता को हतस्तत्र पूर्वम्—’ इत्यादिषु ‘अनाकाशे कोऽयं गलितहरिणः शीतकिरणः’ इत्यादिषु च प्रव्यक्त एवाध्यासविशेषो दृश्यते । एकत्र मनसान्यत्र तु वचसेति सोऽयं समाध्युक्तेः समासोक्तेश्च भेदो भवति ।