सेनेत्यादि । हे नरेन्द्र, सेनागजास्तव विजयस्तुतिमालिखन्तीति मन्ये । कीदृशाः । स्वकराणां हस्तिहस्तानां यानि पुष्कराण्यग्राणि तान्येव लेखन्यः 164काप इति ख्यातास्ताभिर्गण्डस्थलात् मदमेव मषीं वारंवारमाददाना गृह्णन्तः । कुत्र लिखन्तीत्यत आह—समुद्रतीरतालपत्रमध्येषु । मन्येशब्द उत्प्रेक्षाव्यञ्जकः । ‘पुष्करं करिहस्ताग्रे’ इति विश्वः । न च लिखेः कुटादिपाठात् ङित्त्वे गुणाभावे लिखनीति स्यादिति वाच्यम् । ‘रद विलेखने’ इति निर्देशेन ङित्त्वविधेरनित्यत्वबोधनात् । अत एव ‘लेखनीकृतकर्णस्य कायस्थस्य न विश्वसेत् ।’ इत्यादिप्रयोगाः । ‘लेखनी 468 लिपिसाधिका’ इति रत्नकोषः । (‘करिणां बन्धनस्तम्भ आलानम्’ इत्यमरः । ‘शरीरं वर्ष्म विग्रहः’ इति च ।) अत्र पुष्करादेर्लेखन्यादित्वेनोत्प्रेक्षणं क्रियोत्प्रेक्षा । न चेह द्रव्योत्प्रेक्षैवेति वाच्यम्; लिखनरूपक्रियायामेव सर्वेषां तात्पर्यात् । तस्या एव सर्वैर्निर्वाहात् यत्परः शब्दः स शब्दार्थ इति न्यायात् ॥

  1. भाषान्तरशब्दोऽयम्