अङ्गुलीभिरित्यादि । शशी रजनीमुखं चुम्बतीव । कुङ्यलीकृतानि सरोजान्येव लोचनानि यत्र चुम्बने तद्यथा स्यादेवम् । किं कृत्वा । मरीचिभिरङ्गुलीभिस्तिमिरं केशसंचयं संनिगृह्य गृहीत्वेव । प्रायोवादो भारतादौ दर्शनात् । अत्र द्वितीयेनेवपदेन भिन्नपदतया वाक्यकल्पनमितरपदस्यापि तच्छून्यपदस्यापि तदर्थ-469 परत्वमित्युत्प्रेक्षावयवत्वम् । अत एवोत्प्रेक्षाभेदत्वम् । अवयवक्रियामात्रस्यावयविक्रियोत्प्रेक्षणादवयवावयविभावः । तत्राङ्गाङ्गिभाव एव । यद्वा अवयवमात्रक्रियोत्प्रेक्षणमेवावयवित्वोत्प्रेक्षेत्याह—अन्य इति ॥