अत्र कालाक्षरदुः शिक्षिणेत्यनेन लिपिज्ञानादिभिरधीतधर्मशास्त्राभिमतरूपकपोगण्डः कोऽपि कयाप्यविनयवत्या सोपालम्भमेहि रे कण्ठे लगेत्यभियुज्यते । तत्र ते मतमेवं कृते यदि नरकः स्यात्; स यद्यावयोः सहैव, नासौ नरक इति; किं तर्हि स्वर्ग इति । सोऽयं स्वाभिप्रायसाधनान्महासाहसे नियोगस्तस्येह साक्षादस्तुतस्यास्तोतव्यस्य स्तुतिः प्रतीयते । सेयं प्रत्येतव्या नामाप्रस्तुतप्रशंसा ‘परस्य दारान्मनसापि नेच्छेत्’ इति धर्मं बाधते ॥