कालाक्खरेत्यादि । ‘कालाक्षरदुःशिक्षित बालक रे लग मम कण्ठे । द्वयोरपि नरकनिवासः समको यदि भवति तदा भवतु ॥’ इह रे कालाक्षरेषु दुःशिक्षित दुरुपदेश बालक षोडशवर्षवयस्क, मम कण्ठे लग । मामालिङ्गयेत्यर्थः । द्व्योरावयोस्तथा सति नरकनिवासः समकस्तुल्यो यदि भवति तदा भवतु । तत्राप्यावयोः समान एवेति नरकोऽपि स्वर्गः । कालाक्षरेति लौकिकी संज्ञा । रे इति नीचसंबोधनम् । ‘बाल आषोडशाद्वर्षात्’ इति मनुः । समक इति स्वार्थे कन् । पोगण्डो व्यवहारानभिज्ञः । पोगण्डस्तु ततःपरम् ।’ ‘परतो व्यवहारज्ञः’ इति मनुः । अधीतेति । अधीतं धर्मशास्त्रं मन्वादिस्मृतिर्येन सः । अभिमतमाकाङ्क्षितं रूपं सौन्दर्यं यस्य सः । तादृशश्चासौ पोगण्डश्चेति कर्मधारयः । रूपक इत्यत्र ‘शेषाद्विभाषा ५।४।१५४’ इति कप् । अविनयवती वेश्या । अत्र निजाभिप्रायसिध्द्या महासाहसे सुरतरूपे नियोगस्य साक्षादनभिधानात्प्रतीयमाने वा प्रस्तुतस्तुतिः । धर्मबाधामाह—परस्येति । दारान् पत्नीम् ॥