काममित्यादि । हरिणा वनेष्वप्रयत्नतः सुलभेन तृणेन काममत्यर्थं जीवन्ति । धनिषु धनिकेषु दैन्यं न विदधति न कुर्वन्ति । तथापि ते हरिणाः पशवो वयं पुनः सुधियः पण्डिताः । किल प्रसिद्धौ निश्चये वा । ‘अत्यर्थेऽनुमतौ कामम्’ इति विश्वः । अत्र मृगाणां न साक्षादभिनन्दनम्, किंतु तत्प्रतीयत इतीयं प्रत्येतव्या । अत्राप्यर्थबाधा मनस्विन एव ॥