संगतानीत्यादि । मृगाक्षीणां संगतानि संगमाः स्वयं घनं निरन्तरमारब्धान्यपि कृतान्यपि, तथा तडितां विद्युतां विलसितानि च घनैर्मेधैरारब्धान्यपि क्षणद्वयमारम्भक्षणादूर्ध्वमपरमपि क्षणं न तिष्ठन्ति; कुतो दीर्घकालम् । अत्र प्रसिद्धचापलया विद्युता स्त्रीणां संगमस्य चपलता समीकृत्योच्यत इति निन्दातुल्ययोगितेयम् ॥