यम इत्यादि । यमादयो भवन्तोऽनन्यविषयामनन्यगामिनीं लोकपाल इत्यनेनाकारेण श्रुतिं ख्यातिं बिभ्रति धारयन्ति । सहस्राक्ष इन्द्रः । ‘श्रुतिः ख्यातौ च वेदे च’ इति विश्वः । अत्र चत्वारो यमादयो लोकपालाः, इदानीं भवान् पञ्चमो लोकपालशब्दवाच्य इति यमादिसमानताख्यापनेनोत्कृष्टसाम्यकथनाद्राज्ञः स्तुतिः । सा तु प्रतीयमानतुल्यगुणेनैव ॥