आहूतस्येत्यादि । अभिषेकाय राज्याभिषेकायाहूतस्य कृताह्वानस्य, वनाय वनं गन्तुं विसृष्टस्य च तस्य रामस्य स्वल्पोऽप्याकारविभ्रम आकारान्यथात्वं मया न लक्षितः । ‘अन्यथात्वेऽपि विभ्रमः’ इति धरणिः । अत्र राज्याभिषेकः सुखहेतुः, वनगमनं दुःखहेतुः, तयोः पितृभक्त्या तुल्यत्वेन स्तुतित्वम् ॥