गुणानामित्यादि । गुणानां वहनक्षमत्वादीनां दौरात्म्याद्दोषाद्धुर्यो धुरंधरो गौर्वृषो धुरि धुरायां नियुज्यते । गलिः पुनर्गौरसंजातोऽनुत्पन्नः किणो मृतशोणितमांसपिण्डो यत्रेदृशः स्कन्धो सस्य स सुखं यथा स्यादेवं स्वपिति । धुरं वहतीति धुर्यः । ‘धुरो यङ्ढकौ ४।४।७७’ इति यत् । ‘किणः स्यान्मृतशोणिते’ इति रत्नकोषः । 'गलिस्तु वहनाशक्ते’ इत्यपि । अत्र रोषभयादेव समासेन गुणदोषयोरभिधानाल्लेशः ॥