सन्त इत्यादि । सन्तः सदा दुःखं यथा स्यादेवं जीवन्ति । कीदृशाः । सच्चरितस्य सव्द्यापारस्योदये व्यसनिन आसक्ताः । प्रादुर्भवन्त्याविर्भवन्ति यन्त्रणा अनापत्तयो येषां ते । सर्वत्र कर्ये जनानामपवादे दूषणोक्तौ चकिताः सतर्काः । अत 480 एव दुःखमयता । प्राकृतोऽविविक्तो जनो धन्योऽस्ति । कीदृशः । अव्युत्पन्ना अविशेषवती मतिर्यस्य सः । न सता साधुना कृतेन कार्येण नैवासता असाधुना कार्येण व्याकुलः । साध्वसाधुकार्यरहित इत्यर्थः । अत एव इदं कृत्यमिदमकृत्यमिति विचारशून्यहृदयश्च । अत्रापि रोषभयादेव लेशतोऽभिधानम् । दोषगुणीभावो गुणदोषीभावश्च व्यस्तोऽत्र कथं न लेश इति पृच्छति—अथेति । अत्तरम् । दोषेति । आद्यस्याप्रस्तुतस्तुत्याम्, अन्त्यस्य व्याजस्तुत्यां विषयीकरणात्तयोरेवान्तर्भाव इत्यर्थः ॥