प्रिय इत्यादि । हे राजन्, प्रियः प्रीतोऽसि । प्राज्ञ उत्कृष्टमतिरसि । ईश्वरोऽसि । शुद्धवंशोऽसि । तरुणोऽसि । एवं सति कियत्यस्तरुण्यस्त्वां पतिं न वृणते न स्वीकुर्वन्ति । अतो हेतोरेतां कीर्ति पराम्रष्टुमाक्रमितुं भवान्नार्हति । कीदृशीम् । रघुनहुषमान्धातॄणां नृपविशेषाणां महिषीं महादेवीमत एव वृद्धामतिवयस्कां च । 481 ‘कृताभिषेका महिषी’ इत्यमरः । अत्र महिषीवृद्धापदयोर्व्याजात् कपटान्निन्दास्तुतिर्लेशत एव ॥ इति लेशालंकारनिरूपणम् ॥