अत्र धैर्येण सह जलसमूहस्य, तिमिनिवहेन सपक्षपर्वतलोकस्य, नदीस्रोतोभिस्तरङ्गाणाम्, रत्नैश्च गुरुकगुणशतानां मिथः प्रतीयमानं सादृश्यमिवेन द्योत्यते । सहार्थश्च वाक्यार्थसामर्थ्येन लभ्यत इति सेयं 484 धैर्यादीनां बहूनां वहनक्रियायामेकस्यामेवाविवेकतः कर्मभूतानामावेशेनाविविक्तकर्मक्रियासमावेशा नाम ससादृश्या सहोक्तिः ॥