द्रव्येति । द्रव्यादीनामेकक्रियादिसमावेशः समुच्चयः । इतरेतरयोगादीनां समुच्चयामेदमाह—इतरेति । इतरेतरयोगः परस्परापेक्षावयवभेदानुगतः समुच्चयः । समाहारस्तिरोहितावयवभेदः संहतिप्रधानः समुच्चय एव, अन्वाचयो यत्रैकं प्रधानमन्यदप्रधानमन्वीयते सः । समुच्चयं विभजते—द्विपदेति । उभयं द्विपदबहुपदे । अनुभयमद्विपदबहुपदे । एषु मध्ये आद्यास्त्रयः प्रतिपदं वोत्तरत्र वा पदद्योतकैः सह संभवन्तीत्याह—त्रय इति । त्रय एव शुद्धा मिश्राश्च भवन्ति । तुरीयोऽनुभयाश्रयः समुच्चयो द्योतकं चकारादिकं विनैव भवति ॥