निकाममित्यादि । इयं मालती नोऽस्माकं मनो रमयति कम्पयति च । कीदृशी । मदन एव दहनोऽग्निस्तस्मादुद्दाहः प्रकृष्टदाहस्तेन विधुरा विह्वलामवस्थां दशामापन्ना प्राप्ता । अत ए निकाममत्यर्थं क्षीणाङ्गी । सरसो यः कदल्या गर्भो मज्जा तद्वत्सुभगा मनोहरा । अनेन पाण्डुरता तीक्ष्णता चोक्ता । चन्द्रस्य कलाशेषा कलनामात्रावस्थिता मूर्तिरिव नेत्रानन्दजनिका कल्याणी कुशलवती । कदल्या गर्भपदेनातिपाण्डुरत्वकोमलत्वे ध्वनिते । प्रकृतकार्यसंपादकतया रमयति । अतिपीडयारिष्टाशाङ्कित्वान्मनःकम्पनमिहेत्याशयः । अत्र कम्पयति चेत्युत्तरपदस्थेन चकारेणैकत्र मनोलक्षणे द्रव्ये क्रियाद्वयनिवेशनात्समुच्चयः । समुच्चयेन निवेशनाभावे दोषमाह—तेनेति । परस्परनैरपेक्ष्ये उत्तरपदस्थचकारेणान्वाचयापत्तिरित्यर्थः ॥