रूपमित्यादि । आसां स्रीणां रमणेषु विषये इदमिदं कार्मणत्वं वशीकरणे मूलकर्मत्वमागमत् ययौ । अप्रतिविधानेनानिर्बन्धेन । सहजेनेति यावत् । मनोज्ञरूपं कार्यमनपेक्ष्य विकाशि सहजप्रकाशवत्प्रेम्, अकृतकः स्वाभाविकः संभ्रम 488 आदरो यत्रेदृशं चाटु कौशलं च । ‘मूलकर्म तु कार्मणम्’ इत्यमरः। अत्र रूपादयो गुणा अन्त्यपदस्थितचकारेण गमनरूपाक्रियायां समुच्चयेन निवेशिता इति समुच्चयः । तदभावे दोषमाह—अगमन्निति । असमुच्चये बहुवचनं द्वन्द्वश्च स्यादित्यर्थः । इदमेव गुणानां कार्मणत्वम् । जात्या समुच्चयेन जातिसमुच्चयोऽपीत्याह—कार्मणत्वमिति ।