गच्छन्तीनामिति । तत्र स्त्रीणां सौदामिन्या विद्युता त्वमुर्वी भूमिं दर्शय । कीदृशीनाम् । नक्तं रात्रौ पतिगृहं गच्छतीनाम् । कस्मिन् सति । सूच्यग्रभेदनीयैरन्धकारै राजमार्गेऽवरुद्धदर्शने सति । सौदामिन्या कीदृश्या । कनकस्य हिरण्यस्य निकषः कषपट्टिकायां कषणरेखा तद्वत्स्निग्धया रम्यया तोयत्यागस्तनितमुखस्त्वं मा भूः मा भव । यतस्ता अनाथा विक्लवा विह्वलाः स्युः । ‘निकषः कषरेखायां पट्टिकायां कषस्य च’ इति मेदिनीकारः । ‘स्तनितं घनगर्जितम्’ इत्यमरः । माभूरित्यत्र ‘न माङ्योगे ६।४।७४’ इत्यङ्निषेधः । अत्राद्यक्रियामुक्त्वा द्वितीयक्रियाया अन्वाचयः । समुच्चयाद्भेदमाह—भिन्नेति । समुच्चये एककालिक 492 एकविषयेऽन्वयः, अत्रत्वन्वये कालभेदो विषयभेदश्चेति भेदादित्यर्थः । उक्तवैधर्म्ययोः समुच्चये सत्त्वमाशङ्क्य परिहरति—किंत्विति । समुच्चये उभयधर्मवत्त्वेऽपि समुच्चयत्वेनैव विषयपरिहारः, इह तु विवक्षयैव विनिगमनेत्याशयः ॥