वागर्थावित्यादि । अहं गौरीहरौ वन्दे नमामि । किमर्थम् । वाक् चार्थश्च तयोः प्रतिपत्तये निश्चयाय । कीदृशौ । वागर्थाविव शब्दतदभिधेयाविव संपृक्तौ संबद्धौ । यथा शब्दस्तद्वाच्योऽर्थश्च द्वौ नित्यसंबद्धौ वाच्यवाचकत्वसंबन्धेन तथा यौ नित्यसंबद्धावित्यर्थः । जगतो लोकस्य पितरौ मातृजनकौ । पिता च माता चेति द्वन्द्वे ‘पिता मात्रा १।२।७०’ इत्येकशेषे पितराविति । पार्वत्या मातृत्वेन मातुश्चातिगौरवेणाभ्यार्हितत्वात्पूर्वनिपातः । ‘सहस्रेण पितुर्माता गौरवेणातिरिच्यते ।’ इति स्मृतिः । अनेनार्धनारीश्वर उक्तः । यद्वा पार्वतीं पातीति पार्वतीपो हरः, रमाया लक्ष्म्या ईश्वरो हरिस्तौ वन्दे । यद्वा पार्वतीपरो हरो माया लक्ष्म्या ईश्वरो हरिस्तौ हरहरी वन्दे । कीदृशौ । लोकस्य पितरौ जनकौ । अन्यत्तुल्यमेव । एतेन हरिहररूपमुक्तमिति कुव्याख्या । ‘रमा लक्ष्म्यामपीष्यते’ इति विश्वः । ‘मा च लक्ष्मीर्निगद्यते’ इत्येकाक्षरः । परवल्लिङ्गता अर्थशब्दलिङ्गता । संपृक्ता च संपृक्तश्चेत्यत्र ‘पुमान् स्त्रिया १।२।६७’ इत्येकशेषः । अतएवोक्तेर्वक्रतयेहालंकारता । न च धवखदिरावित्यादिषु वक्रोक्तिरतो नालंकारता ॥