सच्चमित्यादि । ‘सत्यं गुरवो गिरयः को भणति जलाशया न गम्भीराः । धीरैरुपमातुं तथापि मम नास्त्युत्साहः ॥’ इह पर्वता निश्चितं गुरुत्वाश्रयाः । को वदति जलाशयाः सागरा न गम्भीराः किंतु गम्भीरा एव । गिरिसागरौ धीरैः सहोपमातुं सदृशीकर्तुं तथापि मम नोत्साहोऽस्ति धीराणां तयोराधिक्यात् । ‘जलाशयो जलाधारः’ इति कोषाद्यद्यपि जलाशयपदं जलाधारमात्रार्थकं तथाप्यतिगाम्भीर्ययोग्यतया सागरपरम् । अत्र विधिनिषेधाभ्यां गुरुत्वगाम्भीर्यनिषेधोऽन्यापेक्षया विधिश्चेति मिश्रता ॥