किमित्यादि । "किं जल्पितेन दशमुख जल्पिसदृशमनिर्वाहयतो भरम् । एतावद् जल्पितसारं निधनमन्येऽपि वज्रधारासु गताः ॥" इह हे दशमुख रावण, जल्पितेन भाषितेन किम् । किंतु न किमपि । कस्य, उक्तिसदृशं भरमनिर्वाहयतः पुंसः । भरमध्यवसायम् । एतावदेतदेव जल्पितसारं श्रेष्ठम् यदन्येऽपि योधा वज्रधारसु निधनं नाशं गताः । ‘श्रेष्ठेऽर्थवत्सारमुदहरन्ति’ इति शाश्वतः । अत्र जल्पन् रावणश्चित्ररथेन वज्रप्रभावकीर्तनरूपप्रतिकूलोक्त्या रूद्ध इति विध्याक्षेपविरोधः ॥