गच्छेत्यादि । हे सखि, त्वत्प्रियं गच्छेति वक्तुमिच्छामि । मत्प्रियैषिणी स्त्रीत्वेन स्त्री प्रियत्वान्मा गा इति वाणी मम मुखान्निर्गच्छतीति किं करोमि । ‘मत्प्रियं त्वत्प्रियैषिणी’ इति पाठे तु त्वत्प्रियैषिण्यहं गच्छेति विवक्षामि, मत्प्रियं यथा भवति तथा मा गा इति वाणी निःसरतीति योज्यम् । अत्र किं करोमीत्यस्य युक्त्या प्रकृतोपपत्त्या निषेधार्थतावगमः । यदि वैयात्यात्प्रागल्भ्याद् विपरीतमभिधत्ते तदा मा गच्छेति वक्तुमिच्छामि, गच्छेति वाणी निःसरतीत्यत्र किं करोमीति तदा युक्तिसिद्ध एव रोधोऽयम् ॥