अत्र ‘असती मा भवतु’ इति यः प्रतिषेधमाह स ‘प्रचुरयुवा 498 ग्रामः—’ इत्यादि कारणमुक्त्वा ततः ‘किं म्रियताम्’ इति प्रतिकूल्येन रुध्यते । तत्र किमः काक्वा सासूयप्रश्नार्थस्य युक्त्या निषेधार्थत्वं गम्यते; सोऽयं यौक्तः प्रतिकूलनिषेधाक्षेपो रोध इत्युच्यते ॥