पउर इत्यादि । "प्रचुरयुक्को ग्रामो मधुमासो यौवनं पतिः स्थविरः । जीर्णसुरा स्वाधीना असती भा भवतु किं म्रियताम् ॥" काचिद्वृद्धपतिका चलचित्तेति ज्ञात्वा कयाचित्कस्यैचित्कथितम् । सा तु तत्रोत्तरमाह—प्रचुर इति । प्रचुरा बहवो युवानस्तरूणा यत्र तादृशः । ‘शेषाद्विभाषा ५।४।१५४’ इति कप् । मधुमासो वसन्तः, यौवनम्, स्वामी स्थविरो वृद्धः । जीर्णसुरा पुराणमद्यं स्वाधीनं निजायत्तमतोऽसती सा मा भवतु किं म्रियताम् । यद्यस्मिन् वत्सरे सा चञ्चला न स्यान्म्रियेतैवेत्यर्थः । सुरा जीर्णा प्रीतिकरीति मद्यपप्रसिद्धः । अत्र किं म्रियतामिति किमः काकुगर्भतया सासूयप्रश्नार्थता युक्त्या निषेधविषयिणी ज्ञायत इति रोधोऽयम् ॥