त्वदित्यादि । इदं विवृतं सदृशव्यतिरेकस्थले । तन्त्रेण प्राधान्येन । ‘तन्त्रं प्रधाने सिद्धान्ते’ इति मेदिनीकारः । यद्वा तन्त्रेण एकार्थप्रयोजकेनेह सदृशयोर्मुखपद्मयोः प्रधानाङ्गभावेनाभिधानं तुल्यता च पदार्थः । एवं च मिथोऽन्वयेनोपमानोपमेयत्वाभिधानम् । फुल्ले इति विशेषणद्वयम् । एकशेषेण हेतूपमानोपमेयतुल्यधर्मद्योतकपूर्णता । इवादिलोपस्तूक्तार्थत्वादतः पूर्णलुप्तेयम् । यत्र समकक्षतया द्वयोरभिधानं तत्र श्लेष एवेत्यतिव्याप्तिरत आह—श्लेषत इति । वाक्यार्थस्य वाक्यसापेक्षतया तद्भेदता ॥