अत्र ‘स्तनादिवदस्या मध्योऽपि मा क्षीयताम्’ इति निषेधवादी केनचिदानुकूल्येन रूध्यते । कथमयं मा क्षीयतामिति । योऽस्याःकुवलयदलसदृक्षाभ्यां लोचनाभ्यां घनस्तनरुद्धप्रसराभ्यां न दृश्यते । इयं ह्येताभ्यामन्यमीक्षमाणा यन्न पश्यति सोऽहमिव मध्योऽपि क्षीयमाणो लक्ष्यते तत्र किमः प्रश्नार्थत्वे निषेधार्थत्वं गम्यते; सोऽयं यौक्तोऽनुकूलश्च निषेधाक्षेपो रोध इत्युच्यते ॥