कहमित्यादि । "कथं मा क्षीयतां मध्योऽस्याः कुवलयदलसदृक्षाभ्याम् । अक्षिभ्यां यो न दृश्यते घनस्तनभररुद्धप्रसराभ्याम् ॥" इहास्या नायिकाया मध्यः कथं मा क्षीयतां न क्षीणतां यातु । योऽस्याः कुवलयदलतुल्याभ्यामक्षिभ्यां निबिड-499 कुचभरावरुद्धगताभ्यां न दृश्यते । अत्रानया नेत्राभ्यामन्यमीक्षमाणया यथाहं न दृष्ट इत्यहं क्षीणस्तथा मध्योऽपि तेनैव क्षीणतापन्न इति लक्ष्यते । इहापि किमो निषेधार्थत्वं युक्त्यैव ज्ञायते ॥