अत्र कदम्बवातातिवाहनादीनां जीविताध्यवसायहेतूनामुपन्यासेऽपि 500 क्रियासूत्तिष्ठमानो न रुध्यते कथमयं न जीवतीति । किं तर्हि कारणमेवाक्षिप्यते—‘तथापि नास्त्यस्य जीवितेऽध्यवसाय’ इति । सोऽयमाक्षेप एव न रोधः ॥