गमिआ इत्यादि । ‘गमिताः कदम्बवाता दृष्टं मेघान्धकारितं गगनतलम् । सोढो गर्जितशब्दस्तथापि खल्वस्य नास्ति जीविते आसङ्गः ॥’ इहास्य रामस्य तथापि जीविते प्राणधारणे आसङ्गोऽध्यवसायो नास्ति । खलु निश्चये वाक्यभूषायां वा । यद्यपि कदम्बपुष्पसंपर्किणो वाता गमिता नीताः दृष्टं मेघान्धकारयुक्तं गगनतलम्, गर्जितरूपः शब्दः सोढः श्रुतः । इहासह्यसहनेऽपि जीवितानध्यवसाये प्रेमातिशयो हेतुः । प्रयाणोचितकाले शरद्यपि यदि न गमनं स्यात्तदा प्रियासमागमो मे न स्यादिति बुद्धिः । यद्वा नेतव्यकालस्य घोरत्वाद्दुर्गवासरयोरध्यवसायः । यद्वा कदम्बवाता गमिताः, विकसदमलकमलवाताः कथं गमितव्याः । मोघान्धकारितं गगनतलं दृष्टम्, शरच्चन्द्रचन्द्रिकाधवलितं कथं द्रष्टव्यम् । गर्जितशब्दः सोढः, कलहंसकलरवः कथं सोढव्य इति विमर्शेनानध्यवसायः । यद्वा एतैरेवानर्थसार्थैः कदर्थिता व्यर्थप्रत्याशासमर्थना सीता यदि भृता स्यात्तदा मदीयाशानाश एव भवेदितिबुध्द्यानध्यवसायः । अत्र जीवनक्रियायामुपस्थितस्य न रोधः, किं तु कारणाक्षेप एवेत्याक्षेपता ॥