अत्र परीतापापहरणक्षमस्य जलदाख्यस्य महावस्तुनो न्यसनं विधाय तत्साधनसाधर्म्येणैव तत्साधनक्षमं महापुरुषलक्षणं वस्त्वन्तरमुपन्यस्यति, सोऽयं साधर्म्येणार्थान्तरन्यासः ॥