प्रियेणेत्पादि । काचिन्नारी जलाविलामपि स्रजं मालां न विजहौ न तत्याज । कीदृशीम् । प्रियेण संग्रथ्य ग्रथित्वा मांसलकुचवति हृदये विपक्षस्व सपत्न्याः समीपे उपाहितामारोपिताम् । अत्रोपपत्तिमाह—हि यतः प्रेम्णि प्रीतौ गुणा वसन्ति न वस्तुनि गुणा वसन्ति । अत्र जलाविलमालाया अप्यत्यागहेतुर्वसन्तीत्यादिना वैधर्म्यपुरस्कारेणोक्तः ॥