का कथेत्यादि । बाणसंधाने धनुषि बाणारोपणे तस्य का कथा । तेन सर्वसिद्धेः । यतः स राजा दूरात् ज्याशब्देनैव विघ्नान्यपोहति वारयति । ज्याशब्देन कीदृशेन । धनुषो हुंकारेणेव । चापस्य हुंकारतुल्येनेत्यर्थः । दूरत इति पञ्चम्यां तसिः ॥ विघ्नानीति । यद्यपि ‘विघ्नोऽन्तरायः प्रत्यूहः’ इत्यमराद्विघ्नशब्दे पुंस्त्वम्, तथापि ‘लिङ्गमशिष्यं लोकाश्रयत्वात्’ इति नपुंसकत्वमपि । अत एव ‘अविघ्नमस्तु ते स्थेयाः पितेव धुरि पुत्रिणाम्’ इति रघुप्रयोगोऽपि । ‘स हि विघ्नानपोहती’ ति वा पाठः कर्तव्यः । अत्र ज्याशब्दस्य चापैकदेशस्य न्यसनात्प्रतीकन्यासता ॥ इत्यर्थान्तरन्यासालंकारनिरूपणम् ॥