गुणेति । विशेषदर्शनायाधिक्यख्यापनार्थं गुणादीनां मध्ये यत्तेषां वैकल्यदर्शनं विकलत्वाभिधानं सा विशेषोक्तिः । एकगुणहानिकल्पनया शेषगुणे दार्ढ्यं 505 विशेषोक्तिरिति लक्षणम् । एवं जात्यादावप्यादिपदाद्द्रव्यसंग्रहः । विशेषदर्शनायेत्यनेन विभावनातो भेद उक्तः । तत्र हि नातिशयो वाच्यः किंतु कारणान्तरम् । इह तु गुणादिप्रतिषेधेन पदार्थानामतिशय इति । गुणादीनां वैकल्यादर्शनेऽपि सा भवतीत्याह—वैकल्येति ॥