न रथा इत्यादि । न रथा न च हस्तिनो नाश्वा न वा पदातयः सन्ति तथापि स्त्रीणामपाङ्गदृष्ट्यैव कटाक्षेणैव लोकत्रयं जीयते । ‘हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्ट्यम् ।’ इत्यमरः । तदिह सेनाङ्गनिषेधाद्द्रव्यवैकल्यम्, अतिशयस्तु तदभावेऽपि त्रिभुवनजयः । द्रव्यस्यापि वैकल्येनैकदेशविकलतया अपरा विशेषोक्तिः । प्रथमा द्रव्यवैकल्यवती, इयं तु द्रव्यैकदेशवैकल्यवतीति भेदः ॥