अयमित्यादि । अयमंसो बाहुमूलं तया स्त्रिया रतिलोभान्निजांसेन निपीडित इत्येक एवायं ममाङ्गे कृती रम्यः । शेषमङ्गं भूमेर्भरो भारजनकम् । शेषशब्दः कर्मघञन्तो वाच्यलिङ्गः । अङ्गभरशब्दयोरजहल्लिङ्गतयान्वयः । अत्रावैकल्यदर्शनेऽपि विशेषोक्तेरियमन्या भवति । यद्यनेन वाक्येनोर्वश्या गुणविशेषवत्त्वज्ञानं तदोक्तलक्षणाभावात्पर्यायोक्तिरेवेत्याह—यत्पुनरिति ॥ इति विशेषालंकारनिरूपणम् ।