पडिआअ इत्यादि । “पतिता च हस्तशिथिलितनिरोधपाण्डुरसमुच्छ्वसत्कपोला । प्रेरितवामपयोधरविषमोन्नतदक्षिणस्तनी जनकसुता ॥” इह जनकसुता 509 सीता पतिता च । न केवलं मूर्च्छिता किंतु पतितापीति चकारार्थः । कीदृशी । हस्तेन शिथिलीकृतो निरोधो यन्त्रणं कपोलस्य अत एव पाणिपीडनत्यागात्पाण्डुरः समुच्छ्वसन् कपोलो यस्याः सा । यद्वा हस्तप्रहतनिरोधेन तत्संपर्कात्पाण्डुरः पीडनत्यागात्समुच्छ्वसन् कपोलो यस्याः सा । प्रेरितेन वामेन पयोधरेण स्तनेन विषमस्तिरश्चीन उन्नतो दक्षिणः स्तनो यस्याः सा । वामस्तनस्य चलनं प्रेरणमत्र रामादचिरभाविदुःखापनयनमिति सूचनम् । यद्वा स्त्रीणां वामः स्तनो निजो दक्षिणः पुरुषस्येति तेनैव पतिता । अत्र कर्तुः कारकतया तद्वाचकपदमेव परिष्कृतम् ॥