मज्झेत्यादि । “मध्यस्थितधरणिधरं क्षीयते च समुद्रमण्डलमुद्वेलम् । रविरथवेगविगलितं पतितमिवोत्कटाक्षकोटि चक्रम् ॥” इह समुद्रमण्डलं क्षीयते च । चः पूर्वापेक्षया समुच्चये । कीदृशम् । मध्यस्थितो धरणिधरो मन्दरगिरिर्यत्र तत् । अत एवोद्वेलमुद्गतजलम् । ‘वेला तत्तीरनीरयोः’ इत्यमरः । सूर्यरथवेगेन स्खलितमंनन्तरं पतितं चक्रमिव । चक्रं कीदृशम् । उत्कटा उद्भटा अक्षकोटिश्चक्राग्रं यत्र तत् । ‘अक्षश्चक्रेऽपि पाशके’ इति विश्वः । अत्र दृष्टान्तस्य साम्यार्थं विशेषणैः परिष्कारः ॥