सलीलमित्यादि । कश्चिन्नायकः प्रियया जघनेन नुनुदे प्रेरितः । स्तनोपपीडं स्तनाभ्यामापीड्य । जघनेन कीदृशेन । नितम्बिना कटितटवता निबिडेन च । कान्तया कीदृश्या । सलीलं सविलासं यथा स्यादेवं पुष्पावतंसकं समासजन्त्या आरोपयन्त्या । कीदृशम् । आसक्तं संबद्धं लताभूषणं यत्र तत् । स्तनोपपीडमिति ‘सप्तम्यां चोपपडी ३।४।४९’ इति णमुल् । अत्र णमुलाव्ययेन नोदनक्रियाया विशेषणं परिकरः ॥ एवमिति । तत्र हि यस्माद्धातोर्लोडादिस्तस्मादेवाग्रिमप्रत्यय इति क्रियाया विशेषणत्वेन परिकरता ॥