शतमित्यादि । हे प्रियसखि, तथापि स धृष्टो मां क्लिश्यन् क्षणमपि न विरमति न विरक्तो भवति । कीदृशः । परुषैर्निष्ठुरैर्वचनैः शतं वारान्यथा स्यादेवमुक्तः, पदे निपतितः, स च पार्ष्णिहतिभिः पादतलप्रहारैः सहस्रं वारान्निर्धूतश्चालितः, इह विषये भ्रुकुटयः पुनः कियत्कृत्वः कियद्वारान् न बद्धा इति न वेद्मि । वारानिति ‘वृञ् वरणे’ भावे घञ् । तेन वारपदमावृत्तिवचनं स्वत एव कियत्कृत्व इति । ‘निष्ठुरं परुषं ग्राम्यम्’ इत्यभरः । अत्र वारशब्दः कृदन्तः । कियत्कृत्व इत्यत्र वारसंख्यावाचकतायां कृत्वसुजिति कृदर्थता । कृदन्तस्य कृदर्थस्य चावृत्तिरूपेण पौनःपुन्यतया क्रियाविशेषणता । ‘नपुंसकत्वं कर्मत्वं तुल्यत्वं च तथैकता । क्रियाविशेषणस्यैव मतं सूरिभिरादरात् ॥’ इति मतमनुमत्य क्लीबत्वमुष्ट्रासिकादीनां शङ्कते—नन्विति । समाधत्ते—त्रिधेति । यत्र धर्मधर्मिणोरभेदोपचारस्तत्र धर्मोऽजहत्स्वरूप एव धर्मिविशेषकः । सोऽयमित्यादौ विशेषरूपेण लिङ्गसंख्ययोरन्वये उष्ट्रासिकादौ कथमन्यलिङ्गग्रहः । ‘गुणवचनानामाश्रयतो लिङ्गवचनानि’ इति गुणरूपाणां विशेष्यलिङ्गता ॥