अत्राद्यः प्रकारवचने थाल् अनेकवारानित्यर्थे ‘असकृत्’ इति तद्धितेन, ‘पश्यन्ति’ इति 184क्रियायाम्, ‘वलितग्रीवम्’ इति समासेन, ‘किमपि’ इति नाम्नाव्ययेन, ‘स्थित्वा’ इति कृता, ‘मुहुः’ इति कृदर्थे वीप्सया च क्रियाविशेषणेन सह विशेषयति, द्वितीयश्च ‘यथा भ्रमन्नयनोदकं निपतति’ इति शतृलक्षितया ‘पतति’185 इति क्रियया तमेवार्थमनुसंदधानः पूर्वक्रियाया एव विशेषणं भवति, 186सोऽयं कृत्तद्धित-516 समासाव्ययानां संनिपातरूपेऽपि क्रियापरिकरे ‘यथा, तथा’ इत्येतयोः प्राधान्यात्तद्धितेनैवोपदिश्यते ॥

  1. ‘क्रियाम्’ ‘क्रियायाः’ वा भवेत्
  2. ‘पतनक्रियया’ क ख
  3. ‘योऽयम्’ ग घ