अकृतेत्यादि । एता मृगपङ्क्तयस्तथा तेन प्रकारेण निबिडनेत्रजलैर्मुखैरसकृद्वारंवारं गगनं पश्यन्ति । यथा येन प्रकारेण नयनजलं भ्रमत् सत् शृङ्गाग्रेभ्यो निपतति । किं कृत्वा । अकृतकवलोद्यमैरास्यैः किमपि वलितग्रीवमुत्तोलितघाटाकं यथा स्यादेवं स्थित्वा । कीदृश्यः । भयेन स्थगिते निश्चले ईक्षणे यासां ताः । अत्र तथेत्यत्र प्रकारवचने थाल् । पश्यन्तीति क्रियायामनेनानेन क्रियाविशेषणेन सह विशेषयतीत्यन्वयः ॥ असकृदिति ‘एकस्य सकृच्च ५।४।१९’ इति सुच्प्रत्ययः, सकृदादेशः संयोगान्तलोपश्च । तेन सकृच्छब्दस्तद्धिताधिकारीयः । पश्चान्नञ्समासः । चलिता ग्रीवा यत्रेति समासः । नाम्ना प्रातिपदिकेन । क्त्वाप्रत्ययः कृत् । मुहुरिति । वारंवारं स्थित्वेत्यत्र पूर्वकालिकावस्थान एव वीप्सेति कृदर्थे वीप्सा स्यादेवेत्यर्थः । द्वितीय इति । यथेत्यत्र थाल् । तमेवार्थं प्रकाररूपं संदधान उपस्थापयन् पूर्वक्रियायाः प्रधानक्रियायाः पश्यन्तीतिरूपाया विशेषणं भवति । तथा च कृत्वसुचा प्रत्ययेनोक्तं यत्स्थानं वारंवारादिलक्षणं तेन यदि तद्धित उच्यते तद्धितस्य वारंवारार्थता भवति तदायं परिकरभेदः कृत्प्रभृतीनां संनिपातरूपः समन्वयरूप इत्यर्थः ॥