जह जहेत्यादि । “यथा यथा निशा समाप्यते तथा तथा वेपमानतरङ्गप्रतिमापतितम् । किंकर्तव्यविमूढं 189वेपते हृदयमिवोदधेः शशिबिम्बम् ॥” इह 517 निशा यथा यथा समाप्यते स्वयं समाप्तिं याति । कर्मकर्तरि तङ् । तथा तथा शशिबिम्बं घूर्णते । कीदृशम् । वेपनशीलतरङ्गे प्रतिमया प्रतिबिम्बेन पतितम् । किंकर्तव्यमत्रेति विमूढं मुग्धमुदधेर्हृदयमिव । इवशब्द उत्प्रेक्षायाम् । अत्र तच्छब्दयच्छब्दयोर्वैपरीत्यम् । यथा शशिबिम्बं घूर्णते तथा निशा समाप्यत इति वक्तव्ये यथोक्तं विपरीतम् । तद्विशेषणयोगः क्रियाविशेषणान्तरयोगे वीप्साकारितः ॥

  1. सेतुबन्धे ‘धोडइ’ इति पाठः, ‘घूर्णते’ इति छाया च