अनेनेत्यादि । हे रम्भोरु, अनेन तरुणेन भूपेन सह तव मनसो रुचिरभिलाषः कच्चित्कथयेत्यर्थः । किमर्थम् । वनपङ्क्तिषु विहर्तुं क्रीडां कर्तुम् । कीदृशीषु । सिप्रा नदीभेदस्तत्तरङ्गसंगिवायुना कल्पितासु । ‘कच्चित्कामप्रवेदने' इत्यमरः । अत्रानेनेति ‘सहयुक्तेऽप्रधाने २।३।१९’ इति तृतीया । तत्प्रतिपाद्यः सहार्थोऽत्र विशेषणाभ्यां परिष्क्रियते ॥