प्रत्यक्षेत्यादि । तुभ्यं नमः । कीदृशाय । प्रत्यक्षो वस्तूनां पदार्थानां विषयो रूपादिकं यस्य तस्मै । यद्वा प्रत्यक्षौ वस्तुविषयौ पदार्थघटपटादी यस्य तस्मै । पदार्थ इह स्वर्गापूर्वदेवतादिः । ‘रूपादौ विषयः पुमान्’ इति मेदिनीकारः । जगतां हितायोपकारकाय । विश्वस्य भुवनस्य स्थितिरवस्थानम्, प्रलयो नाशः, संभव उत्पत्तिस्तेषां हेतवे । सर्वं वस्तु आत्मा स्वं यस्य तस्मै । सर्वरूपायेत्यर्थः । विजितौ रोषकामौ येन तस्मै । त्रिभुवनस्य प्रभवे ईश्वराय शिवाय कल्याणकारकाय च । अत्र ‘नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च २।३।१६’ इति तुभ्यमिति नमोयोगे उपपदविभक्तिश्चतुर्थी तदर्थ इतरपदार्थैः परिष्क्रियते ॥