कह इत्यादि । ‘कथं कथमपि रचयति । पदं मार्गं प्रलोकते छेद्यमाविशति । चौर इव कविरर्थं लब्धुं दुःखेन निर्वहति ॥’ इह कविरर्थं वाच्यं लब्धुं प्राप्तुं दुःखेन निर्वहति समर्थो भवतीत्यर्थः । चौरसाम्यमाह—कथं कथमपि कष्टसृष्ट्या पदं विभक्त्यन्तरं रचयति, कुत्रकुत्रापि वा पदं रचयति, मार्गं कविवर्त्म प्रलोकते पश्यति । अनेन पथा कविभिः किं गतमित्यनुसंदधातीत्यर्थः । छेद्यं छेदनीयमशुद्धमाविशति । चौर इव । यथा चौरः क्वापि कथमपि पदं व्यवसायं पादं वा रचयति, मार्गं गतागतवर्त्म पश्यति, छेद्यं छेदार्हं स्थानं प्रविशति, अर्थं साधुधनं प्राप्तुं दुःखेन शक्नोति तथेत्यर्थः । अत्र साम्यापादकविशेषणैरुपमा असिद्धापि साधिता ॥