विअडे इत्यादि । ‘विकटे गगनसमुद्रे मन्दरेणेव (महिते) मथिते । निर्गच्छति मदिरेव संध्या तस्या मार्गेणामृतकलश इव शशी ॥’ इह संध्या निर्गच्छति । विकटे महति गगनसमुद्रे मन्दरगिरिणेव रविणा दिवसे महिते पूजितेऽथ च मथिते सति मदिरेव यथा मन्दरमथिते समुद्रे मदिरा निर्गच्छति तथेत्यर्थः । तस्याः संध्याया मार्गेण यथा चन्द्रोऽमृतकलश इवास्ति निर्गच्छति वा । आकाङ्क्षाक्रमेण निर्गच्छतिरुभयान्वयी । अत्र सूर्यादिभिरर्थैरन्योन्योपमानात्साधर्म्योपपत्तिरित्यार्थोऽयम् ॥