किमित्यादि । हे शशिमुखि, सखीहस्तारोपितोऽयमयं विलासार्थं परिच्छदस्तवासंस्मरणेन किंचित्क्लाम्यति । तदाह—कबरी केशवेशः । किमिति यादृक् तादृक् । न रम्य इत्यर्थः । ‘कबरी केशवेशः स्यात्’ इत्यमरः । दृशौ नेत्रे अकज्जले 524 किम्, कपोलयोः पत्रावल्योऽद्याधुना किं नैव लिखिताः । खलुशब्दोऽवधारणे वाक्यभूषायां वा । अत्रायमिति सर्वनामोपस्थापितयार्थैकावल्या तुल्ययैव परिच्छदरूपस्य कर्तृकारकस्य परिष्कारः ॥