चरन्तीत्यादि । तव दन्तिनो हस्तिनश्चतुःसमुद्रकूलवनेषु चरन्ति । कुन्दपुष्पदीप्तयो निर्मलास्तव गुणाश्च चक्रवालस्य लोकालोकस्याद्रेः कुञ्जेषु चरन्ति गच्छन्ति । अत्र क्रियावाचिना चरन्तीति पदेनादिस्थेन वाक्यद्वयं दीपितम् । मध्यास्थितेन वा क्रियापदेन यत्र वाक्यदीपनं तदपि मध्यदीपकमन्तदीपकं चेति मन्तव्यमित्याह—एवमिति ॥