पवन इत्यादि । दक्षिणः पवनो मलयानिलो वीरुधां लतानां जीर्णं पक्वं पर्णं पत्रं हरति । स एव पवनो नागरीणां मानभङ्गाय कल्पते शक्तो भवति । अत्र पवनपदस्य सामान्यत एवोभयत्रान्वयाज्जातिवाचकत्वमादिस्थत्वं च । एवं चेत्ययं समुदायोऽत्यन्तमभेदमाह । मध्यान्तस्थयोरपि जातिवाचिनोर्दीपकं तत्तन्नाम्ना ज्ञेयमित्याह—एवमिति ॥