श्यामला इत्यादि । प्रावृषेण्याभिर्वर्षजाताभिर्जीमूतपङ्किभिर्मेघसंधैर्दिशः श्यामलाः श्यामाः । रम्याभिर्नूतनतृणपङ्किभिर्भुवश्च श्यामलाः सन्ति । ‘कालश्यामलमेचकाः’ इत्यमरः । अत्र जाते इत्यर्थे ‘प्रावृष एण्यः ४।३।१७’ इत्येण्यप्रत्ययः । ‘घनजीमूतमुदिर’ इत्यमरः । ‘शाद्वलः शादहरिते’ इति च । ‘शादः स्यात्कर्दमे शस्ये’ इति मेदिनीकारः । अत्र श्यामलपदेन गुणवाचिनानादिस्थेन दीपनम् । मध्यान्तस्थयोरपि गुणवाचिनोरेवं ज्ञेयमित्याह—एवमिति ॥